40 श्लोक
श्लोक 1बालस्य वा विषयभोगरतस्य वापि
मूर्खस्य सेवकजनस्य गृहस्थितस्य ।
एतद्गुरोः किमपि नैव न चिन्तनीयं
रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम् ॥ १॥
bālasya vā viṣayabhogaratasya vāpi
mūrkhasya sevakajanasya gṛhasthitasya ।
etadguroḥ kimapi naiva na cintanīyaṃ ratnaṃ kathaṃ tyajati ko’pyaśucau praviṣṭam ॥ 1॥
बच्चा, मूर्ख, सेवक, गृहस्थ, किसी-से भी सीख। रत्न गन्दे-स्थान-में-गिरा हो तो छोड़ा नहीं जाता।
श्लोक 2नैवात्र काव्यगुण एव तु चिन्तनीयो
ग्राह्यः परं गुणवता खलु सार एव ।
सिन्दूरचित्ररहिता भुवि रूपशून्या
पारं न किं नयति नौरिह गन्तुकामान् ॥ २॥
naivātra kāvyaguṇa eva tu cintanīyo
grāhyaḥ paraṃ guṇavatā khalu sāra eva ।
sindūracitrarahitā bhuvi rūpaśūnyā pāraṃ na kiṃ nayati nauriha gantukāmān ॥ 2॥
काव्य-गुण नहीं, सार लो। sindUr-चित्र-रहित नौका भी पार ले जाती है।
श्लोक 3प्रयत्नेन विना येन निश्चलेन चलाचलम् ।
ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम् ॥ ३॥
prayatnena vinā yena niścalena calācalam ।
grastaṃ svabhāvataḥ śāntaṃ caitanyaṃ gaganopamam ॥ 3॥
बिना-प्रयत्न, निश्चल, चलाचल को पकड़े हुए, स्वभावतः शान्त, चैतन्य, गगन-समान।
श्लोक 4अयत्नाछालयेद्यस्तु एकमेव चराचरम् ।
सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम ॥ ४॥
ayatnāchālayedyastu ekameva carācaram ।
sarvagaṃ tatkathaṃ bhinnamadvaitaṃ vartate mama ॥ 4॥
श्लोक 5अहमेव परं यस्मात्सारात्सारतरं शिवम् ।
गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ॥ ५॥
ahameva paraṃ yasmātsārātsārataraṃ śivam ।
gamāgamavinirmuktaṃ nirvikalpaṃ nirākulam ॥ 5॥
श्लोक 6सर्वावयवनिर्मुक्तं तथाहं त्रिदशार्चितम् ।
सम्पूर्णत्वान्न गृह्णामि विभागं त्रिदशादिकम् ॥ ६॥
sarvāvayavanirmuktaṃ tathāhaṃ tridaśārcitam ।
sampūrṇatvānna gṛhṇāmi vibhāgaṃ tridaśādikam ॥ 6॥
श्लोक 7प्रमादेन न सन्देहः किं करिष्यामि वृत्तिमान् ।
उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च यथा जले ॥ ७॥
pramādena na sandehaḥ kiṃ kariṣyāmi vṛttimān ।
utpadyante vilīyante budbudāśca yathā jale ॥ 7॥
सन्देह नहीं, क्या करूँगा वृत्तिवान्? जल में बुद-बुदे उठते-डूबते हैं।
श्लोक 8महदादीनि भूतानि समाप्यैवं सदैव हि ।
मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु च ॥ ८॥
mahadādīni bhūtāni samāpyaivaṃ sadaiva hi ।
mṛdudravyeṣu tīkṣṇeṣu guḍeṣu kaṭukeṣu ca ॥ 8॥
श्लोक 9कटुत्वं चैव शैत्यत्वं मृदुत्वं च यथा जले ।
प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे ॥ ९॥
kaṭutvaṃ caiva śaityatvaṃ mṛdutvaṃ ca yathā jale ।
prakṛtiḥ puruṣastadvadabhinnaṃ pratibhāti me ॥ 9॥
श्लोक 10सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम् ।
मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् ॥ १०॥
sarvākhyārahitaṃ yadyatsūkṣmātsūkṣmataraṃ param ।
manobuddhīndriyātītamakalaṅkaṃ jagatpatim ॥ 10॥
श्लोक 11ईदृशं सहजं यत्र अहं तत्र कथं भवेत् ।
त्वमेव हि कथं तत्र कथं तत्र चराचरम् ॥ ११॥
īdṛśaṃ sahajaṃ yatra ahaṃ tatra kathaṃ bhavet ।
tvameva hi kathaṃ tatra kathaṃ tatra carācaram ॥ 11॥
श्लोक 12गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम् ।
चैतन्यं दोषहीनं च सर्वज्ञं पूर्णमेव च ॥ १२॥
gaganopamaṃ tu yatproktaṃ tadeva gaganopamam ।
caitanyaṃ doṣahīnaṃ ca sarvajñaṃ pūrṇameva ca ॥ 12॥
श्लोक 13पृथिव्यां चरितं नैव मारुतेन च वाहितम् ।
वरिणा पिहितं नैव तेजोमध्ये व्यवस्थितम् ॥ १३॥
pṛthivyāṃ caritaṃ naiva mārutena ca vāhitam ।
variṇā pihitaṃ naiva tejomadhye vyavasthitam ॥ 13॥
श्लोक 14आकाशं तेन संव्याप्तं न तद्व्याप्तं च केनचित् ।
स बाह्याभ्यन्तरं तिष्ठत्यवच्छिन्नं निरन्तरम् ॥ १४॥
ākāśaṃ tena saṃvyāptaṃ na tadvyāptaṃ ca kenacit ।
sa bāhyābhyantaraṃ tiṣṭhatyavacchinnaṃ nirantaram ॥ 14॥
श्लोक 15सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः ।
आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत् ॥ १५॥
sūkṣmatvāttadadṛśyatvānnirguṇatvācca yogibhiḥ ।
ālambanādi yatproktaṃ kramādālambanaṃ bhavet ॥ 15॥
सूक्ष्म-तत्त्व अदृश्य, निर्गुण। योगियों के आलंबन क्रम-से बनते हैं।
श्लोक 16सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत् ।
तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः ॥ १६॥
satatā’bhyāsayuktastu nirālambo yadā bhavet ।
tallayāllīyate nāntarguṇadoṣavivarjitaḥ ॥ 16॥
श्लोक 17विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य च ।
एकमेव विनाशाय ह्यमोघं सहजामृतम् ॥ १७॥
viṣaviśvasya raudrasya mohamūrcchāpradasya ca ।
ekameva vināśāya hyamoghaṃ sahajāmṛtam ॥ 17॥
श्लोक 18भावगम्यं निराकारं साकारं दृष्टिगोचरम् ।
भावाभावविनिर्मुक्तमन्तरालं तदुच्यते ॥ १८॥
bhāvagamyaṃ nirākāraṃ sākāraṃ dṛṣṭigocaram ।
bhāvābhāvavinirmuktamantarālaṃ taducyate ॥ 18॥
श्लोक 19बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते ।
अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत् ॥ १९॥
bāhyabhāvaṃ bhavedviśvamantaḥ prakṛtirucyate ।
antarādantaraṃ jñeyaṃ nārikelaphalāmbuvat ॥ 19॥
श्लोक 20भ्रान्तिज्ञानं स्थितं बाह्यं सम्यग्ज्ञानं च मध्यगम् ।
मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत् ॥ २०॥
bhrāntijñānaṃ sthitaṃ bāhyaṃ samyagjñānaṃ ca madhyagam ।
madhyānmadhyataraṃ jñeyaṃ nārikelaphalāmbuvat ॥ 20॥
श्लोक 21पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः ।
तेन तत्सदृशं पश्येद्द्विधादृष्टिर्विपर्ययः ॥ २१॥
paurṇamāsyāṃ yathā candra eka evātinirmalaḥ ।
tena tatsadṛśaṃ paśyeddvidhādṛṣṭirviparyayaḥ ॥ 21॥
पूर्णिमा का चन्द्र एक ही निर्मल। उसको दो-तरह देखने वाला विपर्यय।
श्लोक 22अनेनैव प्रकारेण बुद्धिभेदो न सर्वगः ।
दाता च धीरतामेति गीयते नामकोटिभिः ॥ २२॥
anenaiva prakāreṇa buddhibhedo na sarvagaḥ ।
dātā ca dhīratāmeti gīyate nāmakoṭibhiḥ ॥ 22॥
श्लोक 23गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः ।
यस्तु सम्बुध्यते तत्त्वं विरक्तो भवसागरात् ॥ २३॥
guruprajñāprasādena mūrkho vā yadi paṇḍitaḥ ।
yastu sambudhyate tattvaṃ virakto bhavasāgarāt ॥ 23॥
श्लोक 24रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः ।
दृढबोधश्च धीरश्च स गच्छेत्परमं पदम् ॥ २४॥
rāgadveṣavinirmuktaḥ sarvabhūtahite rataḥ ।
dṛḍhabodhaśca dhīraśca sa gacchetparamaṃ padam ॥ 24॥
राग-द्वेष-निर्मुक्त, सर्व-भूत-हित-रत, दृढ़-बोध, धीर, यह परम-पद पाता।
श्लोक 25घटे भिन्ने घटाकाश आकाशे लीयते यथा ।
देहाभावे तथा योगी स्वरूपे परमात्मनि ॥ २५॥
ghaṭe bhinne ghaṭākāśa ākāśe līyate yathā ।
dehābhāve tathā yogī svarūpe paramātmani ॥ 25॥
घट टूटे, घट-आकाश आकाश में लीन। यो-योगी देह-अभाव में परमात्मा-स्वरूप में।
श्लोक 26उक्तेयं कर्मयुक्तानां मतिर्यान्तेऽपि सा गतिः ।
न चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः ॥ २६॥
ukteyaṃ karmayuktānāṃ matiryānte’pi sā gatiḥ ।
na coktā yogayuktānāṃ matiryānte’pi sā gatiḥ ॥ 26॥
श्लोक 27या गतिः कर्मयुक्तानां सा च वागिन्द्रियाद्वदेत् ।
योगिनां या गतिः क्वापि ह्यकथ्या भवतोर्जिता ॥ २७॥
yā gatiḥ karmayuktānāṃ sā ca vāgindriyādvadet ।
yogināṃ yā gatiḥ kvāpi hyakathyā bhavatorjitā ॥ 27॥
श्लोक 28एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ।
विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ॥ २८॥
evaṃ jñātvā tvamuṃ mārgaṃ yogināṃ naiva kalpitam ।
vikalpavarjanaṃ teṣāṃ svayaṃ siddhiḥ pravartate ॥ 28॥
श्लोक 29तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा ।
न योगी पश्यते गर्भं परे ब्रह्मणि लीयते ॥ २९॥
tīrthe vāntyajagehe vā yatra kutra mṛto’pi vā ।
na yogī paśyate garbhaṃ pare brahmaṇi līyate ॥ 29॥
तीर्थ में या चाण्डाल-घर में मरने पर भी, यो-योगी गर्भ नहीं देखता, ब्रह्म में लीन।
श्लोक 30सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं
घटति यदि यथेष्टं लिप्यते नैव दोषैः ।
सकृदपि तदभावात्कर्म किञ्चिन्नकुर्यात्।ह्
तदपि न च विबद्धः संयमी वा तपस्वी ॥ ३०॥
sahajamajamacintyaṃ yastu paśyetsvarūpaṃ
ghaṭati yadi yatheṣṭaṃ lipyate naiva doṣaiḥ ।
sakṛdapi tadabhāvātkarma kiñcinnakuryāt।h tadapi na ca vibaddhaḥ saṃyamī vā tapasvī ॥ 30॥
श्लोक 31निरामयं निष्प्रतिमं निराकृतिं
निराश्रयं निर्वपुषं निराशिषम् ।
निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं
तमीशमात्मानमुपैति शाश्वतम् ॥ ३१॥
nirāmayaṃ niṣpratimaṃ nirākṛtiṃ
nirāśrayaṃ nirvapuṣaṃ nirāśiṣam ।
nirdvandvanirmohamaluptaśaktikaṃ tamīśamātmānamupaiti śāśvatam ॥ 31॥
नीरामय, निष्प्रतिम, निराकृति, निराश्रय, निर्वपुष, निराशिष, निर्द्वन्द्व, निर्मोह, अलुप्त-शक्ति। शाश्वत-ईश-आत्मा को पाता।
श्लोक 32वेदो न दीक्षा न च मुण्डनक्रिया
गुरुर्न शिष्यो न च यन्त्रसम्पदः ।
मुद्रादिकं चापि न यत्र भासते
तमीशमात्मानमुपैति शाश्वतम् ॥ ३२॥
vedo na dīkṣā na ca muṇḍanakriyā
gururna śiṣyo na ca yantrasampadaḥ ।
mudrādikaṃ cāpi na yatra bhāsate tamīśamātmānamupaiti śāśvatam ॥ 32॥
वेद नहीं, दीक्षा नहीं, मुण्डन नहीं, गुरु नहीं, शिष्य नहीं, यन्त्र-सम्पद् नहीं। शाश्वत-ईश-आत्मा को पाता।
श्लोक 33न शाम्भवं शाक्तिकमानवं न वा
पिण्डं च रूपं च पदादिकं न वा ।
आरम्भनिष्पत्तिघटादिकं च नो
तमीशमात्मानमुपैति शाश्वतम् ॥ ३३॥
na śāmbhavaṃ śāktikamānavaṃ na vā
piṇḍaṃ ca rūpaṃ ca padādikaṃ na vā ।
ārambhaniṣpattighaṭādikaṃ ca no tamīśamātmānamupaiti śāśvatam ॥ 33॥
श्लोक 34यस्य स्वरूपात्सचराचरं जग\-
दुत्पद्यते तिष्ठति लीयतेऽपि वा ।
पयोविकारादिव फेनबुद्बुदा\-
स्तमीशमात्मानमुपैति शाश्वतम् ॥ ३४॥
yasya svarūpātsacarācaraṃ jaga\-
dutpadyate tiṣṭhati līyate’pi vā ।
payovikārādiva phenabudbudā\- stamīśamātmānamupaiti śāśvatam ॥ 34॥
श्लोक 35नासानिरोधो न च दृष्टिरासनं
बोधोऽप्यबोधोऽपि न यत्र भासते ।
नाडीप्रचारोऽपि न यत्र किञ्चि\-
त्तमीशमात्मानमुपैति शाश्वतम् ॥ ३५॥
nāsānirodho na ca dṛṣṭirāsanaṃ
bodho’pyabodho’pi na yatra bhāsate ।
nāḍīpracāro’pi na yatra kiñci\- ttamīśamātmānamupaiti śāśvatam ॥ 35॥
श्लोक 36नानात्वमेकत्वमुभत्वमन्यता
अणुत्वदीर्घत्वमहत्त्वशून्यता ।
मानत्वमेयत्वसमत्ववर्जितं
तमीशमात्मानमुपैति शाश्वतम् ॥ ३६॥
nānātvamekatvamubhatvamanyatā
aṇutvadīrghatvamahattvaśūnyatā ।
mānatvameyatvasamatvavarjitaṃ tamīśamātmānamupaiti śāśvatam ॥ 36॥
श्लोक 37सुसंयमी वा यदि वा न संयमी
सुसङ्ग्रही वा यदि वा न सङ्ग्रही ।
निष्कर्मको वा यदि वा सकर्मक\-
स्तमीशमात्मानमुपैति शाश्वतम् ॥ ३७॥
susaṃyamī vā yadi vā na saṃyamī
susaṅgrahī vā yadi vā na saṅgrahī ।
niṣkarmako vā yadi vā sakarmaka\- stamīśamātmānamupaiti śāśvatam ॥ 37॥
श्लोक 38मनो न बुद्धिर्न शरीरमिन्द्रियं
तन्मात्रभूतानि न भूतपञ्चकम् ।
अहङ्कृतिश्चापि वियत्स्वरूपकं
तमीशमात्मानमुपैति शाश्वतम् ॥ ३८॥
mano na buddhirna śarīramindriyaṃ
tanmātrabhūtāni na bhūtapañcakam ।
ahaṅkṛtiścāpi viyatsvarūpakaṃ tamīśamātmānamupaiti śāśvatam ॥ 38॥
श्लोक 39विधौ निरोधे परमात्मतां गते
न योगिनश्चेतसि भेदवर्जिते ।
शौचं न वाशौचमलिङ्गभावना
सर्वं विधेयं यदि वा निषिध्यते ॥ ३९॥
vidhau nirodhe paramātmatāṃ gate
na yoginaścetasi bhedavarjite ।
śaucaṃ na vāśaucamaliṅgabhāvanā sarvaṃ vidheyaṃ yadi vā niṣidhyate ॥ 39॥
श्लोक 40मनो वचो यत्र न शक्तमीरितुं
नूनं कथं तत्र गुरूपदेशता ।
इमां कथामुक्तवतो गुरोस्त\-
द्युक्तस्य तत्त्वं हि समं प्रकाशते ॥ ४०॥
mano vaco yatra na śaktamīrituṃ
nūnaṃ kathaṃ tatra gurūpadeśatā ।
imāṃ kathāmuktavato gurosta\- dyuktasya tattvaṃ hi samaṃ prakāśate ॥ 40॥
मन-वाणी जहाँ नहीं पहुँचता, वहाँ गुरु-उपदेश कैसे? यह कथा गुरु से सुनकर तत्त्व सम प्रकाशित।